|
|
 |
 |
|
|
३ आरण्यकपर्व.jpg)
॥ श्रीः ॥
3.129. अध्यायः 129
Mahabharata - Vana Parva - Chapter Topics
ऋत्विक्चोदनया सोमकेन राज्ञा जन्तुनामकपुत्रवपाया होमे तद्गन्धाघ्राणनेन तद्भार्याशते पुत्रशतोत्पत्तिः ॥ 1 ॥ लोकान्तरं गतेन सोमकेन ऋत्विजा सह तद्भोग्यस्वपुत्रहननजनारकीयदुःखानुभवपूर्वकं तेन सहैव स्वीयसुकृतकलोपभोगः ॥ 2 ॥
Mahabharata - Vana Parva - Chapter Text
सोमक उवाच। 3-129-0x(2122)(20865)
ब्रह्मन्यद्यद्यथा कार्यं तत्कुरुष्व तथातथा।
पुत्रकामतया सर्वंकरिष्यामि वचस्तव ॥ 3-129-1(20866)
लोमश उवाच। 3-129-2x(2123)
ततः स याजयामास सोमकं तेन जन्तुना।
मातरस्तु बलातपुत्रमपाकार्षुः कृपान्विताः ॥ 3-129-2(20867)
हा हताः स्मेति वाशन्त्यस्तीव्रशोकसमाहताः।
तं मातरः प्त्यकर्षन्गृहीत्वा दक्षिणे करे ॥ 3-129-3(20868)
सव्ये पाणौ गृहीत्वा तु याजकोपि स्म कर्षति।
कुररीणामिवार्तानामपाकृष्य तु तं सुतम् ॥ 3-129-4(20869)
विशस्य चैनं विधिवद्वपामस्य जुहाव सः।
वपायां हूयमानायां गन्धमाघ्राय मातरः ॥ 3-129-5(20870)
आर्ता निपेतुः सहसा पृथिव्यां कुरुनन्दन।
सर्वाश्च गर्भानलबंस्ततस्ताः पार्थिवाङ्गनाः ॥ 3-129-6(20871)
ततो दशसु मासेषु सोमकस्य विशांपते।
जज्ञे पुत्रशतं पूर्णं तासु सर्वासु भारत ॥ 3-129-7(20872)
जन्तुर्ज्येष्ठः समभवज्जनित्र्यामेव पूर्ववत्।
स तासामिष्ट एवासीन्न तथाऽन्ये निजाः सुताः ॥ 3-129-8(20873)
तच्च लक्षणमस्यासीत्सौवर्णं पार्श्व उत्तरे।
तस्मिन्पुत्रशते चाग्र्यः स बभूव गुणैरपि ॥ 3-129-9(20874)
ततः स लोकमगमत्सोमकस्य गुरुः परम्।
अन्वक्षमेव पश्चात्तु सोमकोप्यगमत्परम् ॥ 3-129-10(20875)
अथ तं नरके घोरे पच्यमानं ददर्श सः।
तमपृच्छत्किमर्थं त्वं नरके पच्यसे द्विज ॥ 3-129-11(20876)
तमब्रवीद्गुरुः सोऽथ पच्यमानोऽग्निना भृशम्।
त्वं मया याजितो राजंस्तस्येदं कर्मणः फलम् ॥ 3-129-12(20877)
एतच्छ्रुत्वा स राजर्षिर्धर्मराजमथाब्रवीत्।
अहमत्र प्रवेक्ष्यामि मुच्यतां मम याजकः ॥ 3-129-13(20878)
मत्कृते हि महाभागः पच्यते नरकाग्निना।
`सोहमात्मानमाधास्ये नरके मुच्यतां गुरुः' ॥ 3-129-14(20879)
धर्म उवाच। 3-129-15x(2124)
नान्य कर्तुः फलं राजन्नुपभुङ्क्ते कदाचन।
इमानि तव दृश्यन्ते फलानि वदतांवर ॥ 3-129-15(20880)
सोमक उवाच। 3-129-16x(2125)
पुण्यान्न कामये लोकानृतेऽहं ब्रह्मवादिनम्।
इच्छाम्यहमननैव सह वस्तुं सुरालये ॥ 3-129-16(20881)
नरके वा धर्मराज कर्मणाऽस्य समो ह्यहम्।
पुण्यापुण्यफलं देव सममस्त्वावयोरिदम् ॥ 3-129-17(20882)
धर्मराज उवाच। 3-129-18x(2126)
यद्येवमीप्सितं राजन्भुङ्खास्य सहितः फलम्।
तुल्यकालं सहानेन पश्चात्प्राप्स्यसि सद्गतिम् ॥ 3-129-18(20883)
लोमश उवाच। 3-129-19x(2127)
स चकार तथा सर्वं राजा राजीवलोचनः।
क्षीणपापश्च तस्मात्स विमुक्तो गुरुणा सह ॥ 3-129-19(20884)
लेभे कामाञ्शुभान्राजन्कर्मणा निर्जितान्स्वयम्।
सह तेनैव विप्रेण गुरुणा स गुरुप्रियः ॥ 3-129-20(20885)
एष तस्याश्रमः पुण्यो य एषोग्रे विराजते।
क्षान्त उष्यात्र षड्रात्रं प्राप्नोति सुगतिं नरः ॥ 3-129-21(20886)
एतस्मिन्नपि राजेन्द्र वत्स्यामो विगतज्वराः।
षड्रात्रं नियतात्मानः स़ज्जीभव कुरूद्वह ॥ 3-129-22(20887)
इति श्रीमन्महाभारते अरण्यपर्वणि तीर्थयात्रापर्वणि एकोनत्रिंशदधिकशततमोऽध्यायः ॥ 129 ॥
Mahabharata - Vana Parva - Chapter Footnotes
3-129- वाशन्त्यः क्रोशन्त्यः ॥ 3-129- वपां देहान्तर्गतमपूपाकारं मासम् ॥ 3-129- लक्षणं चिह्नम् ॥ 3-129- सोमकस्य ऋत्विगिति शेषः ॥ 3-129- क्षान्तः क्षमावान्। उष्य उषित्वा ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|